________________
१००२
वृद्धहारीतस्मृतिः। [द्वितीयोरुद्रार्थनाबाह्मणस्तु शूद्रेण समतां व्रजेत् । यक्षभूतार्चनात् सद्यश्चण्डालत्वमवाप्नुयात् ॥४७ न भस्म धारयेद्विप्रः परमापद्गतोऽपि वा। मोहाद्वै विभृयाद्यस्तु ससुरापो भवेद्धृवम् ।।४८ तिर्यक् पुण्ड्रधरं विप्रं पट्टाम्बरधरं तथा । श्वपाक इव वीक्षेत न सम्भाषेत कुत्रचित् । तस्माद्विजातिभिर्धाऱ्या मूर्द्ध पुण्डू विधानतः ॥४६ मृदा शुभ्रण सततं सान्तरालं मनोहरम् । स्नात्वा शुद्ध ऽपि पूर्वाह्न विष्णुमभ्यर्च्य देशिकः ।।५० स्नातं शिष्यं समाहूय होमं कुर्वीत पूर्ववत् । परोमात्रेति सूक्तेन पायसं मधुमिश्रितम् ।।५१ हुत्वाऽथमूलमन्त्रेण शतमष्टोत्तरं घृतम् । खण्डिले तु ततः पश्चान्मण्डलानि यदा क्रमात् ।। ५२ दीक्ष्वष्टमध्ये चत्वारि विन्यसेत् पुरतो हरेः। विलिखेत्तत्र पुण्ड्रादि विस्तारायामभेदतः ॥५३ तेष्वर्चयेत्ततो धीमान् केशवादीननुक्रमात् । तत्र तत्र च तन्मूर्ति ध्यात्वा मन्त्रैः समर्चयेत् ॥५४ गन्धपुष्पादि सकलं मन्त्रैणैवार्चयेद्गुरुम् । प्रदक्षिण मनुब्रज्य स शिष्यः प्रणमेत्तथा ॥५५ तद्वाही निक्षिपेच्छिष्यः केशवादीननुक्रमात् । हृदि विन्यस्य पुण्ड्राणि गुरूक्तानि स वैष्णवः ॥५६