SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ १००३ ऽध्यायः ] वैष्णवानांपुण्डसंस्कारवर्णनम् । शुभ्रेणैव मृदा पश्चाद्विभृयात् सुसमाहितः। त्रिसन्ध्यासु मृदा विप्रो यागकाले विशेषतः ॥५७ श्राद्ध दाने तथा होमे स्वाध्याये पितृतर्पणे । श्रद्धालुरूर्द्ध पुण्ड्राणि विभृयाद्विजसत्तमः ॥५८ श्राद्धो होमस्तथा दानं स्वाध्यायः पितृतर्पणम् । भस्मीभवति तत्सर्वमूर्ध्वपुण्डुम्विना कृतम् ॥५६ ऊर्ध्वपुण्डू विना यस्तु श्राद्धं कुर्वीत स द्विजः । सर्व तद्राक्षसैनीतं नरकं चाधिगच्छति ॥६० ऊर्ध्वपुण्ड्रविहीनन्तु यः श्राद्ध भोजयेद्विजम् । अश्नन्ति पितरस्तस्य विण्मूत्रं नात्र संशयः॥६१ तस्मात्तु सततं धार्यमूर्ध्वपुण्डू द्विजन्मना। धारयेन्न तिर्यक् पुण्डूमापद्यपि कदाचन ॥६२ तिर्यमुण्ड्धरं विप्रं चण्डालमिव सन्त्यजेत् । सोऽनर्हः सर्वकृत्येषु सर्वलोकेषु गर्हितः॥६३ मर्वपुण्डविहीनः सन् सन्ध्याकर्म समाचरेत् । सवं तद्राक्षसीतं नरकश्च स गच्छति ॥६४ यदि स्यात्तु मनुष्याणा मूर्ध्वपुण्ड्रविवर्जितम् । द्रष्टव्यन्नव तत्किञ्चित् श्मशानमिव तद्भवेत् ॥६५ ऊर्ध्वपुण्डू मृदा शुत्रं ललाटे यस्य दृश्यते । चण्डालोऽपि हि शुद्धात्मा विष्णुलोके महीयते ॥६६ ऊर्ध्वपुण्डस्य मध्ये तु ललाटे सुमनोहरे । लक्ष्म्या सह समासीनो रमते तत्र वै हरिः ॥६७
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy