________________
ऽप्यायः ]
वैष्णवानापुण्ड्रसंस्कारवर्णनम् । १००१
श्रुत्यैव चाङ्कयेद्गात्रे तद्ब्रह्मसमवाप्तये । यते पवित्रमर्द्धिष्यमग्ने वत मनन्तरा ॥३६ ब्रह्मेति निहितन्नैव ब्रह्मणो श्रुतिवृ हितम् । पवित्रमिति चैवाग्निरग्निर्वै चक्रमुच्यते ॥ ३७ अग्निरेव सहस्रारः सहस्रा नेमिरुच्यते । मितप्ततनुः सूर्यो ब्रह्मणा समतां व्रजन् ॥३८ यत्ते पवित्रमर्चिष्यमग्नेस्तु न सुनिहितः । दक्षिणे तु भुजे विप्रो बिभृयाद्वै सुदर्शनम् ॥३६ सव्ये तु शङ्ख विभृयादिति ब्रह्मविदो विदुः । इत्यादिश्रुतिभिः प्रोक्तं विष्णोश्चक्रस्य धारणम् ॥४० पुराणेतिहासेषु सात्विकेषु स्मृतिष्वपि । शङ्खचक्रोद्ध पुण्ड्रादिरहितं ब्राह्मणं नृप ! ॥४१ यः श्राद्ध भोजयेद्विप्रः पितॄणां तस्य दुर्गतिः । शङ्खचक्रोर्ध्वपुण्ड्रादिचिह्नः प्रियतमैर्हरेः ॥ ४२ रहितः सर्वधर्मेभ्यश्च्युतो नरकमाप्नुयात् । रुद्रार्चनं त्रिपुण्ड्रस्य धारणं यत्र दृश्यते ॥ ४३ तच्छूद्राणां विधिः प्रोक्तो न द्विजानां कदाचन । प्रतिलोमानुलोमानां दुर्गाग गसुभैरवाः ॥४४ पूजनीया यथार्हेण विल्वचन्दनवारिणम् । यक्षराक्षसभूतानि विद्याधरगणस्तदा ॥४५ चण्डालानामर्चनीया मद्यमांसनिषेवणाम् । स्ववर्णविहितं धर्ममेवं ज्ञात्वा समाचरेत् ||४६