________________
६६८
वृद्धहारीतरमृतिः। [द्वितीयो। संस्काराणां तु सर्वेषा माद्य चक्रादिधारणम् ॥३ तत् कर्तव्यं हि सर्वेषां विधीनां वै द्विजन्मनाम् । आचार्य संश्रयेत् पूर्वमनघं वैष्णवं द्विजम् ।।४ शुद्धसत्वगुणोपेतं नवेज्याकर्मकारणम् । सत्सम्प्रदायसंयुक्तं मन्त्ररत्नार्थकोविदम् ॥५ ज्ञानवैराग्यसंपन्नं वेदवेदाङ्गपारगम् । शासितारं सदाचार्यः सर्वधर्मविदांवरम् ॥६ महाभागवतं विप्रं सदाचारनिषेवणम् । भालोक्य सर्वशास्त्राणि पुराणानि च वैष्णवाः ॥७ तदर्थमाचरेधस्तु स आचार्य उदाहृतः । आस्तिक्यमानसं सद्भिरुपेतं धर्मवत्सलम् ॥८ प्रधानं सदाचारं गुरुशुश्रूषतत्परम् । सम्वत्सरं प्रतीक्ष्याथें तं शिष्यं शासयेद्गुरुः॥ ६ तस्याऽऽदौ पञ्च संस्कारान् कुर्यात् सम्यग्विधानतः । प्रातः स्नात्वा शुचौ देशे पूजयित्वा जनार्दनम् ॥१० स्नातं शिष्यं समानीय तेनैव सह देशिकः । साप्य पञ्चामृतैर्गव्यैश्चक्रादीनचयेत्ततः ॥११ पुष्पैथुपैश्च दीपैश्च नैवेद्यैर्विविधैरपि। तत्तत्प्रकाशकैर्मन्त्रैरर्चयेत् पुरतो हरेः ॥१२ अनौहोमं प्रकुलवीत इध्माधानादिपूर्वकम् । पौरुषेण तु सूक्तेन पायसं घृतमिश्रितम् ॥१३