SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ प्रायः] पञ्चसंस्कारप्रतिपादनवर्णनम् । तदादि वर्षसञ्चारी मन्त्ररत्नार्थतत्ववित् । वैष्णवः स जगत्पूज्यो याति विष्णोः परं पदम् ।२५ अचक्रधारी यो विप्रो बहुवेदश्रुतोऽपि वा। स जीवन्नेव चण्डालो मृतो निरयमाप्नुयात् ।।२६ तस्मात्ते हरिसंस्काराः कर्तव्या धर्मकाविणाम् । अयमेव परं धर्मः प्रधानं सर्वकर्मणाम् ।।२७ इति वृद्धहारीतस्मृत्यां विशिष्टधर्मशास्त्रे पञ्चसंस्कार प्रतिपादनं नाम प्रथमोऽध्यायः । ॥ द्वितीयोऽध्यायः ॥ अथ पुण्डूसंस्कारवर्णनम् । __अम्बरीष उवाच। भगवन् । वैष्णावाः पञ्च संस्काराः सर्वकर्मणाम् । प्रधानमिति यच्चोक्तं सर्वैरेव महर्षिभिः ॥१ तद्विधानं ममाचक्ष्व विस्तरेणैव सुव्रत !। हारीत उवाच । श्रुणु राजन् ! प्रवक्ष्यामि निर्मला वैष्णवाः क्रियाः ॥२ यदुक्तं ब्रह्मणा पूर्व वसिष्ठाद्यैश्च वैष्णवैः ।
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy