________________
वृद्धहारीतस्मृतिः।
[प्रपनीचतुभिः शोभनोपायः साध्योऽयं सुमहात्मनः। तुरीयपदयोभत्तया सुसिद्धोऽय मुदाहृतः ॥१५ तं स्वीकुर्वन्ति विद्वांसः स्वस्वरूपतया सदा। नैसर्गिक हि सर्वेषां दास्यमेव हरेः सदा ॥१६ स्वाम्यं परस्वरूपं स्याहास्यं जीवस्य सर्वदा । प्रकृत्या त्वात्मनो रूपं स्वाम्यं दास्यमिति स्थितिः ॥१७ दास्यमेव परं धम दास्यमेव परं हितम् । दास्येनैव भवेन्मुक्तिरन्यथा निरयं भवेत् ॥१८ विष्णोर्दास्यं परा भक्तियेषां तु न भवेत् कचित् । तेषामेव हि संसृष्टं निरयं ब्रह्मणा नृप ! ॥१६ नारायणस्य दासा ये न भवति नराधमाः। जीवन्त एव चाण्डाला भविष्यन्ति न संशयः ॥२० तस्मादास्यं परां भक्तिमालम्ब्य नृपसत्तम । नित्यं नैमित्तिकं सर्व कुर्यात्प्रीत्यै हरेः सदा ॥२१ तस्य स्वरूपं रूपञ्च गुणांश्चापि विभूतयः । झात्वा समचयेद्विष्णुं यावज्जोव मतन्द्रितः ॥२४ तमेव मनसा ध्यायेद्वाचा सङ्कोतयेत्प्रभुम् । जपेच्च जुहुयाद्भक्तो तद्वानेकविलक्षणः ।।२३ शङ्खचक्रोव पुण्ड्रादिधारणं दास्यलक्षणम् । तन्नामकरणञ्चव वैष्णवन्तदिहोच्यते ॥२४ अवैष्णवाश्च ये विप्रा हर्षदास्ते नराधमाः । तेषां तु नरके वासः कल्पकोटिशतैरपि ॥२५