________________
ध्यायः] पञ्चसंस्कारप्रतिपादनवर्णनम् ६५
ब्रूहि वर्णाश्रमाणान्तु नित्यनैमित्तिकक्रियाः । कर्तव्या मुनिशार्दूल ! नारीणाञ्च नृपस्य च ॥४ स्वरूपं जीवपरयाः कथं मोक्षपथस्य च । तत्प्राप्ते साधनं ब्रह्मन् ! वक्तुमर्हसि सुब्रत ! ॥५ एवमुक्तस्तु विप्रर्षिस्तेन राजर्षिणा तदा । उवाच परमप्रीत्या नमस्कृत्य जनार्दनम् ।।६
हारीत उवाच । शृणु राजन् ! प्रवक्ष्यामि सर्वं वेदोपहितम् । यदुक्तं ब्रह्मणा पूर्व पृच्छतो मम भूपते ! ॥७ तद्ब्रवीमि परं धर्म शृणुष्वैकाग्रमानसः । सर्वेषामेव देवाना मनादिः पुरुषोत्तमः ।।८ ईश्वरस्तु स एवान्ये जगतो विभुरव्ययः। नारायणो वासुदेवो विष्णुब्रह्मात्मनो हरिः॥ स्रष्टा धाता विधाता च स एव परमेश्वरः । हिरण्यगर्भः सविता गुणधृङ् निर्गुणोऽव्ययः॥१० परमात्मा परं ब्रह्म परं ज्योतिः परात्परः । इन्द्रः प्रजापतिः सूर्यः शिवो वह्निः सनातनः ॥११ सर्वात्मकः सर्वसुहृत् सर्वभृद्भूतभावनः । यमी च भगवान् कृष्णो मुकुन्दोऽनन्त एष च ॥१२ यज्ञो यज्ञपतिर्यज्वा ब्रह्मण्यो ब्रह्मणः पतिः। स एव पुण्डरीकाक्षः श्रीशो नाथोऽधिपो महान् ।।१३ सहस्रमूर्द्धा विश्वात्मा सहस्रकरपादवान् । यद्गत्वा न विवर्तन्ते तद्धाम परमं हरेः ॥१४