SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ ६६ ऽध्यायः] वैष्णवानापुण्ड्रसंस्कारवर्णनम् । आज्येन मूलमन्त्रेण हुत्वा चाष्टोत्तरं शतम्। वैष्णव्या चैव गायत्र्या जुहुयात् प्रयतो गुरुः ॥१४ पश्चादग्नौ विनिक्षिप्य चक्राद्यायुधपञ्चकम् । पूजयित्वा सहस्रारं ध्यात्वा तद्वह्निमण्डले ॥१५ षडक्षरेण जुहुयादाज्यं विंशतिसंख्यया । सर्वेश्च हेतिमन्त्रैश्च एकैकाज्याहुतिं क्रमात् ॥१६ ततः प्रदक्षिणं कृत्वा स शिष्यो वह्निमात्मवान् । नमस्कृत्वा ततो विष्णुं जप्त्वा मन्त्रवरं शुभम् ॥१७ प्राङ्मुखं तु समासीनं शिष्यमेकापचेतसम् । प्रतपेच्चक्रशङ्खौ द्वौ हेतिभिर्मन्त्रमुच्चरन् ॥१८ दक्षिणे तु भुजे चक्रं वामांशे शङ्खमेव च। गदां च भालमध्ये तु हृदये नन्दकं तदा ॥१६ मस्तके तु तथा शाङ्ग मङ्कयेद्विमलं तदा । पश्चात् प्रक्षाल्य तोयेन पुनः पूजा समाचरेत् ।।२० होमशेषं समाप्याथ वैष्णवान् भोजयेत्ततः । एवं तापः क्रियाः कार्याः वैष्णव्यः कल्मषापहाः ॥२१ प्रधानं वैष्णवं तेषां तापसंस्कारमुत्तमम् तापसंस्कारमात्रेण परां सिद्धिमवाप्नुयात् ।।२२ केचित्तु चक्रशङ्खौ द्वौ प्रतप्तौ बाहुमूलयोः । धारयन्ति महात्मानश्चक्रमेकं तु चापरे ॥२३ वैष्णपानां तु हेतीनां प्रधानं चक्रमुच्यते । तेनैव बाहुमूले तु प्रतप्तेनाङ्कयेद्बुधः ॥२४
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy