________________
ऽध्यायः] योगवर्णनम् ।
यथान्नं मधुसंयुक्तम् मधुवान्नेन संयुतम् । उभाभ्यामपि पक्षाभ्यां यथा खे पक्षिणां गतिः॥१० तथैव ज्ञानकर्मभ्यां प्राप्यते ब्रह्म शाश्वतम् । विद्यातपोभ्यां संपन्नो ब्राह्मणो योगतत्परः॥११ देहद्वयं विहायाशु मुक्तो भवति बन्धनात् । न तथा क्षीणदेहस्य विनाशो विद्यते कचित् ॥१२ मया ते कथितः सो वर्णाश्रमविभागशः। संक्षेपेण द्विजश्रेष्ठा ! धर्मस्तेषां सनातनः ॥१३ श्रुत्वैवं मुनयो धर्म स्वर्गमोक्षफलप्रदम् । प्रणम्य तमृषि जग्मुर्मुदिताः स्वं स्वमाश्रमम् ॥१४ धर्मशास्त्रमिदं सर्व हारीतमुखनिःसृतम् । अधीत्य कुरुते धर्म स याति परमा गतिम् ॥१५ ब्राह्मणस्य तु यत् कर्म कथितं वाहुजस्य च । ऊरुजस्यापि यत् कर्म कथितं पादजस्य च । अन्यथा वर्तमानस्तु सद्यः पतति जातितः ॥१६ यो यस्याभिहितो धर्मः स तु तस्य तथैव च । तस्मात् स्वधर्म कुति द्विजो नित्यमनापदि ॥१७ वर्णाश्चत्वारो राजेन्द्र । चत्वारश्चापि चाश्रमाः। स्वधर्म ये तु तिष्ठन्ति ते यान्ति परमां गतिम् ।।१८ स्वधर्मग यथा नृणां नारसिंहः प्रसीदति । न तुष्यति तथान्येन कर्मणा मधुसूदनः ॥१६