SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ वानप्रस्थाश्रमधर्मवर्णनम् । तथा चतुर्थकाले तु भुञ्जीयादष्टमेऽथवा । षष्ठे च कालेऽप्यथवा वायुभक्षोऽथवा भवेत् ॥ ६ धर्मे चाग्निमध्यस्थस्तथा वर्षे निराश्रयः । हेमन्ते च जले स्थित्वा नयेत् कालं तपश्चरन् ॥७ एवभ्व कुर्वता येन कृतबुद्धिर्यथाक्रमम् । अस्वात्मनि कृत्वा तु प्रव्रजेदुत्तरां दिशम् ॥८ आदेहपातं वनगो मौनमास्थाय तापसः । स्मरन्नतीन्द्रियं ब्रह्म ब्रह्मलोके महीयते ॥ ऽयायः ] ૨૨ तपो हि यः सेवति वन्यवासः समाधियुक्तः प्रयतान्तरात्मा । विमुक्त पापो विमलः प्रशान्तः स याति दिव्यं पुरुषं पुराणम् ॥१० इति हारीते धर्मशास्त्रे पञ्चमोऽध्यायः । ॥ षष्ठोऽध्यायः ॥ अथ सन्न्यासाश्रमधर्मवर्णनम् । अतः परं प्रवक्ष्यामि चतुर्थाश्रममुत्तमम् । श्रद्धया तदनुष्ठाय तिष्ठन्मुच्येत बन्धनात् ॥१ एवं वनाश्रमे तिष्ठन् पातयंश्चैव किल्विषम् । चतुर्थमाश्रमं गच्छेत् संन्यासविधिना द्विजः ॥२ दत्त्वा पितृभ्यो देवेभ्यो मानुषेभ्यश्च यत्नतः । दत्वा श्राद्ध पितृभ्यश्च मानुषेभ्य स्तथात्मनः ॥३
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy