________________
૨૮૮
लघुहारितस्मृतिः ।
एवं धर्मो गृहस्थस्य सायंभूत उदाहृतः । य एवं श्रद्धया कुर्यात् स याति ब्रह्मणः पदम् ॥७५ ज्ञानोत्कर्षश्च तस्य स्यान्नारसिंहप्रसादतः ।
चतुर्थी
तस्मान्मुक्तिमवा' नोति ब्राह्मणो द्विजसत्तमाः ! ॥७६ एवं हि विप्राः ! कथितो मया वः समासतः शाश्वतधर्मराशिः । गृही गृहस्थस्य सतो हि धर्मं कुर्वन् प्रयत्नाद्धरिमेति युक्तम् ॥७७ इति हारीते धर्मशास्त्रे चतुर्थोऽध्यायः ।
॥ पञ्चमोऽध्यायः ॥
अथ वानप्रस्थाश्रमधर्मवर्णनम् । अतः परं प्रवक्ष्यामि वानप्रस्थस्य सत्तमाः ! धर्माश्रमं महाभागाः ! कथ्यमानं निबोधत ॥१ गृहस्थः पुत्रपौत्रादीन् दृष्ट्रा पलितमात्मनः । भार्या पुत्रेषु निःक्षिप्य सह वा प्रविशेद्वनम् ॥२ नखरोमाणि च तथा सितगात्रत्वगादि च । धारयन् जुहुयादग्निं वनस्थो विधिमाश्रितः ॥ ३ धान्यैश्च वनसंभूतैर्नीवाराद्यैरनिन्दितैः । शाकमूलफलैर्वापि कुर्यान्नित्यं प्रयत्नतः ॥४ त्रिकालस्नानयुक्तस्तु कुर्य्या तीव्रं तपस्तदा । पक्षान्ते वा समश्नीयान्मासान्ते वा स्वपक्कभुक् ॥५