________________
गृहस्थाश्रमधर्मवर्णनम् ।
सुवासिनी कुमारीश्व भोजयित्वा नरानपि । बालवृद्धांस्ततः शेषं स्वयं भुञ्जीत वा गृही ॥ ६४ प्राङ्मुखोदङ्मुखो वापि मौनी च मितभाषकः । अन्नमादौ नमस्कृत्य प्रहृष्टेनान्तरात्मना ॥ ६५ एवं प्राणाहुतिं कुर्यान्मन्त्रेण च पृथक् पृथक् । ततः स्वादुकरान्नश्च भुञ्जीत सुसमाहितः ||६६ आचम्य देवतामिष्टां संस्मरन्नुदरं स्पृशेत् । इतिहासपुराणाभ्यां कञ्चित् कालं नयेद्बुधः ||६७ ततः सन्ध्यामुपासीत वहिर्गत्वा विधानतः । कृतहोमस्तु भुञ्जीत रात्रौ चातिथिभोजनम् ||६८ सायं प्रातर्द्विजातीनामशनं श्रुतिचोदितम् । नान्तराभोजनं कुर्यादमिहोत्रसमो विधिः ॥ ६६ शिष्यानध्यापयेचापि अनध्याये विसर्जयेत् । स्मृत्युक्तानखिलांश्चापि पुराणोक्तानपि द्विजः ॥७० महानवम्यां द्वादश्यां भरण्यामपि पर्वसु । तथाक्षयतृतीयायां शिष्यान्नाध्यापयेद्विजः ॥७१ माघमासे तु सप्तम्यां रथ्याख्यायां तु वर्जयेत् । अध्यापनं समभ्यञ्जन् स्नानकाले च वर्जयेत् ॥७२ नीयमानं शवं दृष्ट्रा महीस्थं वा द्विजोत्तमाः । न पठेद्रुदितं श्रुत्वा सन्ध्यायां तु द्विजोत्तमः ॥७३ दानानि च प्रदेयानि गृहस्थेन द्विजोत्तमाः । हिरण्यदानं गोदानं पृथिवीदानमेव च ॥७४
Sध्यायः ]
૨૮૭