________________
६८६
[ चतुर्थी
लघुहारीतस्मृतिः ।
ततोऽयं भानवे दद्यात्तिलपुष्पाक्षतान्वितम् । उत्थाय मूर्द्धपर्यन्तं हंसः शुचिषदित्यृचा ॥५३ ततो देवं नमस्कृत्य गृहं गच्छेत्ततः पुनः । विधिना पुरुषसूक्तस्य गत्वा विष्णुं समर्थयेत् ॥५४ वैश्वदेवं ततः कुर्याद्वलिकर्म विधानतः । गोदोहमात्रमाकाङ्क्षेदतिथिं प्रति वै गृही ॥५५ अपूर्वमज्ञानमतिथिं प्राप्तमर्चरेत् । स्वागतासनदानेन प्रत्युत्थानेन चाम्बुना ॥ ५६. स्वागतेनाग्नयस्तुष्टा भवन्ति गृहमेधिनः । आसनेन तु दत्तेन प्रीतो भवति देवराट् ॥५७ पादशौचेन पितरः प्रीतिमायान्ति दुर्लभाम् । अन्नदानेन युक्तेन तृप्यते हि प्रजापतिः ।।५८ तस्मादतिथये कार्यं पूजनं गृहमेधिना । भक्त्या च शक्तितो नित्यं विष्णोरर्थादनन्तरम् ॥५६ भिक्षाश्च भिक्षवे दद्यात् परिब्राब्रह्मचारिणे । अकल्पितान्नादुद्धृत्य सव्यञ्जनसमन्विताम् ॥ ६० अकृते वैश्वदेवेऽपि भिक्षौ च गृहमागते । उद्धृत्य वैश्वदेवार्थं भिक्षां दत्वा विसर्जयेत् ॥ ६१ वैश्वदेवातान् दोषान्छतो भिक्षुर्व्यपोहितुम् । नहि भिक्षुकृतान् दोषान् वैश्वदेवो व्यपोहति ॥६२ तस्मात् प्राप्ताय यतये भिक्षां दद्यात् समाहितः । विष्णुरेव यतिच्छायइति निश्चित्य भावयेत् ॥ ६३