________________
૯૮૨
लघुहारीतस्मृतिः ।
[ चतुर्थी
प्रतिपत्पर्वषष्ठीषु नवम्याञ्चैव सत्तमाः ! | दन्तानां काष्ठसंयोगाद्दहत्यासप्तमं कुलम् ||१० अभावे दन्तकाष्ठानां प्रतिषिद्धदिनेषु च । अपां द्वादशगण्डूषैर्मुखशुद्धिं समाचरेत् ॥११ स्नात्वा मन्त्रवदाचम्य पुनराचमनं चरेत् । मन्त्रवत् प्रोक्ष्य चात्मानं प्रक्षिपेदुदकाञ्जलिम् ||१२ आदित्येन सह प्रातर्मन्देहा नाम राक्षसाः । युद्धयन्ति वरदानेन ब्रह्मणोऽब्यक्तजन्मनः ॥१३ उदकाञ्जलिनिःक्षेपा गायत्र्या चाभिमन्त्रिताः । निघ्नन्ति राक्षसान् सर्व्वान् मन्देहाख्यान् द्विजेरिताः ॥१४ ततः प्रयाति सविता ब्राह्मणैरभिरक्षितः । मरीच्याद्यैर्महाभागः सनकाद्यैश्च योगिभिः ॥ १५ तस्मान्न लङ्घयेत् सन्ध्यां सायं प्रातः समाहितः ।
यति यो मोहात् स याति नरकं ध्रुवम् ॥१६ सायं मन्त्रवदाचम्य प्रोक्ष्य सूर्य्यस्य चाञ्जलिम् । दत्त्वा प्रदक्षिणं कुर्य्याज्जलं स्पृष्ट्रा विशुद्धयति ॥१७ पूर्णां सन्ध्यां सनक्षत्रामुपासीत यथाविधि । गायत्रीमभ्यसेत्तावद् यावदा दित्यदर्शनात् ॥ १८ उपास्य पश्चिम सन्ध्यां सादित्याश्च यथाविधि । गायत्रीमभ्यसेतावद्यावत्तारा न पश्यति ॥ १६ ततचावसथं प्राप्य कृत्वा होमं स्वयं बुधः । सचिन्त्य पोष्यवर्गस्य भरणार्थं विचक्षणः ||२०