________________
ऽध्यायः]
गृहस्थाश्रमधर्मवर्णनम् । ..
चतुर्थोऽध्यायः।
अथ गृहस्थानमधर्मवर्णनम् । गृहीतवेदाध्ययनः श्रुतशास्त्रार्थतत्त्ववित् । असमानार्षगोत्रां हि कन्यां सभ्रातृकां शुभाम् ॥१ सर्वावयवसंपूर्णा सुवृत्तामुद्वहेन्नरः। ब्राह्मण विधिना कुर्यात् प्रशस्तेन द्विजोत्तमः ॥२ तथान्ये बहवः प्रोक्ता विवाहा वर्णधर्मतः ।
औपासनश्च विधिवदाहृत्य द्विजपुङ्गवाः !॥३ सायं प्रातश्च जुहुयात् सर्वकालमतन्द्रितः । स्नानं कायं ततोनित्यं दन्तधावनपूर्वकम् ॥४ उषःकाले समुत्थाय कृतशौचो यथाविधि । मुखे पर्युषिते नित्यं भवत्यप्रयतो नरः॥५ तस्माच्छुष्कमथाद्रं वा भक्षयेद्दन्तकाष्ठकम् । करञ्जखादिरं वापि कदम्वं कुरवं तथा ॥६ सप्तपर्णपृश्निपर्णीजम्बुनिम्बं तथैव च । अपामार्गश्च विल्वञ्चार्कञ्चोडुम्वरमेव च ॥७ एते प्रशस्ताः कथिता दन्तधावनकर्मणि । दन्तकाष्ठस्य भक्षश्च समासेन प्रकीर्तितः ।।८ सर्वे कण्टकिनः पुण्याः क्षीरिणश्च यशस्विनः । अष्टाङ्गुलेन मानेन दन्काष्ठमिहोच्यते । प्रादेशमात्रमथवातेन दन्तान् विशोधयेत् ॥