________________
ऽध्यायः ]
ब्रह्मचर्याश्रमधमवर्णनम् ।
वर्णेषु धर्मा विविधा मयोक्ता यथातथा ब्रह्ममुखेरिताः पुरा । शृणुध्वमत्राश्रमधर्ममाद्यं मयोच्यमानं क्रमशो मुनींद्राः ॥१५ इतिहारी धर्मशास्त्रे द्वितीयोऽध्यायः ।
तृतीयोऽध्यायः । अथ ब्रह्मचर्याश्रमधर्मवर्णनम् ।
उपनीतो मानवको वसेद्गुरुकुलेषु च । गुरोः कुले प्रियं कुर्यात् कर्मणा मनसा गिरा ॥ १ ब्रह्मचर्य्यमधःशय्या तथा वह्न रुपासना । उदकुम्भान् गुरोर्दद्याद्गोग्रासञ्च धनानि च । कुर्य्यादध्ययनभ्वव ब्रह्मचारी यथा विधि | विधिं त्यक्ता प्रकुर्व्वाणो न स्वाध्यायफलं लभेत् ॥२ यः कश्चित् कुरुते धर्मं विधिं हित्वा दुरात्मवान् । न तत्फलमवाप्नोति कुर्वाणोऽपि विधिच्युतः ॥३ तस्माद्वेदव्रतानीह चरेत् स्वाध्यायसिद्धये । शौचाचारमशेषं तु शिक्षयेद् गुरुसन्निधौ ॥४ अजिनं दण्डकाष्ठच मेखलाश्चोपवीतकम् । धारयेदप्रमत्तश्च ब्रह्मचारी समाहितः ॥५ सायं प्रातश्चरेद्वैक्षं भोज्यार्थं संयतेन्द्रियः । आचम्य प्रयतो नित्यं न कुर्यादन्तधावनम् ।
६६