SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ६७८ लघुहारीतस्मृतिः। [द्वितीयोधर्मेण यजनं कार्यमधर्मपरिवर्जनम् । उत्तमां गतिमाप्नोति क्षत्रियोऽप्येवमाचरन् ॥५ गोरक्षा कृषिवाणिज्यं कुर्याद्वैश्यो यथाविधि । दानं देयं यथाशक्तया ब्राह्मणानाञ्च भोजनम् ॥६ दम्भमोहविनिर्मुक्तस्तथा वागनसूयकः । स्वदारनिरतो दान्तः परदारविवर्जितः ॥७ धनैविप्रान् भोजयित्वा यज्ञकाले तु याजकान् । अप्रभुत्वञ्च वर्तेत धर्मष्वादेहपातनात् ।।८ यज्ञाध्ययनदानानि कुर्यान्नित्यमतन्द्रितः। पितृकार्यपरश्चैव नरसिंहाचनापरः ।। एतद्वैश्यस्य धर्मोयं स्वधर्ममनुतिष्ठति । एतदाचरते योहि स स्वर्गी नात्र संशयः ॥१० वर्णत्रयस्य श्रुश्रूषां कुर्याच्छूद्रः प्रयत्नतः । दासवब्राह्मणानाञ्च विशेषेण समाचरेत् ।।११ अयाचितप्रदाता च कष्टं वृत्यर्थमाचरेत् । पाकयज्ञविधानेन यजेदेवमतन्द्रितः ।।१२ शूद्राणामधिकं कुर्यादर्चनं न्यायवर्तिनाम् । धारणं जीर्णवस्त्रस्य विप्रस्योच्छिष्ठभोजनम् । म्वदारेषु रतिश्चैव परदारविवर्जनम् ॥१३ इत्थं कुर्यात् सदा शूद्रो मनोवाकायकर्मभिः । स्थानमैन्द्रमवाप्नोति नष्टपापः सुपुण्यकृत् ॥१४
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy