SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ६७६ लघुहारीतस्मृतिः। [प्रथमोअध्यापनं चाध्ययनं याजनं यजनं तथा । दानं प्रतिग्रहश्चेति षट् कर्माणीति चोच्यते ॥१८ अध्यापनञ्च त्रिविधं धर्मार्थमृक्थकारणात् । शुश्रूषाकरणञ्चेति त्रिविधं परिकीर्तितम् ॥१६ एषामन्यतमाभावे वृषाचारो भवेद्विजः। तत्र विद्या न दातव्या पुरुषेण हितैषिणा ॥२० योग्यानध्यापयेच्छिष्यानयोग्यानपि वर्जयेत् । विदितात् प्रतिगृह्णीयाद्गृहे धर्मप्रसिद्धये ॥२१ वेदव्चैवाभ्यसेन्नित्यं शुचौ देशे समाहितः । धर्मशास्त्रं तथा पाठ्य ब्राह्मणैः शुद्धमानसैः ।।२२ वेदवित्पठितव्यं च श्रोतव्यञ्च दिवा निशि । स्मृतिहीनाय विप्राय श्रुतिहीने तथैव च । दानं भोजनमन्यच्च दत्तं कुलविनाशनम् ।।२३ तस्मात् सर्वप्रयत्नेन धर्मशास्त्रं पठे द्विजः । श्रुतिस्मृती च विप्राणां चक्षुषी देवनिर्मिते । काणस्तत्रैकया हीनो द्वाभ्यामन्धः प्रकीर्तितः ।।२४ गुरुश्रुश्रूषणञ्चैव यथान्यायमतन्द्रितः। सायं प्रातरुपासीत विवाहाग्निं द्विजोत्तमः ! ।।२५ सुनातस्तु प्रकुर्वीत वैश्वदेवं दिने दिने । अतिथीनागताञ्छत्या पूजयेदविचारतः ॥२६ अन्यानभ्यागतान् विप्राः ! पूजयेच्छक्तितो गृही। स्वदारनिरतो नित्यं परदारविवर्जितः ।।२७
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy