SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ऽध्याय वर्णाश्रमधर्मवर्णनम् । १७५ हारीतस्तानुवाचाथ तैरेवं चोदितो मुनिः । शृण्वन्तु मुनयः ! सर्वे ! धर्मान् वक्ष्यामि शाश्वतान् ॥७ वर्णानामाश्रमाणाञ्च योगशास्त्रञ्च सत्तमाः ।। सन्धाऱ्या मुच्यते मो जन्मसंसारबन्धनात् ॥८ पुरा देवो जगत्स्रष्टा परमात्मा जलोपरि । सुष्वाप भोगिपर्यङ्क शयने तु श्रिया सह ॥ तस्य सुप्तस्य नाभौ तु महत् पद्ममभूत् किल । पद्ममध्येऽभवद् ब्रह्मा वेदवेदाङ्गभूषणः ॥१० स चोक्तो देवदेवेन जगत्सृज पुनः पुनः। सोऽपि सृष्ट्वा जगत् सर्व सदेवासुरमानुषम् ॥११ यज्ञसिद्धयर्थमनघान् ब्राह्मणान्मुखतोऽसृजत् । असृजत् क्षत्रियान् वाह्वो वैश्यानप्युरुदेशतः ॥१२ शूद्रांश्च पादयोः सृष्ट्वा तेषाचैवानुपूर्वशः । यथा प्रोवाच भगवान् ब्रह्मयोनि पितामहः ॥१३ तद्वचः संप्रवक्ष्यामि शृणुत द्विजसत्तमाः ।। धन्यं यशस्यमायुष्यं स्वयं मोक्षफलप्रदम् ॥१४ ब्राह्मण्यां ब्राह्मणेनैवमुत्पन्नो ब्राह्मणः स्मृतः । तस्य धर्म प्रवक्ष्यामि तद्योग्यं देशमेव च ॥१५ कृष्णसारो मृगो यत्र स्वभावेन प्रवर्त्तते । तस्मिन्देशे वसेद्धर्मः सिद्धयति द्विजसत्तमाः ! ॥१६ षट् कर्माणि निजान्याहुर्ब्राह्मणस्य महात्मनः । तैरेव सततं यस्तु वर्तयेत् सुखमेधते ॥१७
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy