________________
॥ अथ ॥
-॥ लघुहारीतस्मृतिः ॥
॥ श्रीगणेशाय नमः॥
अथ वर्णाश्रमधर्मवर्णनम्। ये वर्णाश्रमधर्मस्थास्ते भक्ताः केशवं प्रति । इतिपर्व त्वया प्रोक्तं भूर्भुवःस्वर्द्विजोत्तमाः ॥१ वर्णानामाश्रमाणाञ्च धर्मान्नो ब्रूहि सत्तम !। येन सन्तुष्यते देवो नारसिंहः सनातनः ॥२ अत्राहं कथयिष्यामि पुरावृत्तमनुत्तमम् । ऋषिभिः सह संवादं हारीतस्य महात्मनः॥३ हारीतं सर्वधर्मज्ञमासीनमिव पावकम् । प्रणिपत्याब्रुवन् सर्वं मुनयो धर्मकाङ्गिणः ॥४ भगवन् ! सर्वधर्मज्ञ ! सर्वधर्मप्रवर्तक !। वर्णानामाश्रमाणाञ्च धर्मान्नो ब्रूहि भार्गव ! ॥५ समासाद्योगशास्त्रञ्च विष्णुभक्तिकरं परम् । एतच्चान्यच्च भगवन् ! ब्रूहि नः परमो गुरुः ॥६