SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] योगाभ्यासवर्णनम् । १७३ तमात्मरूपं परमव्ययं च विश्वेश्वरं चित्तभरं प्रपद्ये। शान्ति च गत्वा विधिना च योगी प्रयाति तद्वै पदमव्ययं च ॥३७१ कालज्ञानेन योगोऽयं योगिभिर्ध्यानकारिभिः । मुमुक्षुभिःसदा ज्ञेयं निरालम्बं परं पदम् ॥३७२ पराशरोदितं शास्त्रं चतुर्वर्णाश्रमाय च । वेदितव्यं प्रयत्नेन सदा ध्येयं द्विजातिभिः ॥३७३ दश द्वादश चाष्टौ वा सप्त षट् पंच वा त्रयः। दैविके पैतृके वापि श्लोकाः श्राव्या द्विजातिभिः ॥३७४ श्रावयिष्यति यः श्राद्धे ब्राह्मणान्भक्तितत्परः। प्राश्यन्ति पितरस्तस्य तृप्ति वै शाश्वतीं द्विजाः ॥३७५ य इदं श्रुणुयाद्वापि श्रावयेत्पाठयेदपि । ‘स प्रध्वस्ततमस्तोमो ब्रह्मलोकमवाप्नुयात् ॥३७६ त्रिभिःश्लोकसहस्रेस्तु त्रिभित्तशतैरपि । पराशरोदितं धर्मशास्त्रं प्रोवाच सुव्रतः ॥३७७ नमोऽस्तु याज्ञवल्क्याय मनवे विष्णवे नमः । गौतमाय वसिष्ठाय नमः पाराशराय च ॥३७८ इति श्री वृहत्पाराशरे धर्मशास्त्रे सुत्रतप्रोक्तायां स्मृत्यां योगनिरूपणो नाम द्वादशोऽध्यायः । ॥ इति वृहत्पराशरस्मृतिः समाप्ता ॥ ॐ तत्सत
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy