________________
[द्वादशो
६७२
वृहमराशरस्मृतिः। तवयं ऋतुरित्युक्तं तद्वयं काल उच्यते । तत्सार्धमयनं प्रोक्तं तवयं वत्सरस्तथा ॥३६० पञ्चभिस्तैर्युगं प्रोक्तं तद्द्वादशकषष्ठिकम्। षष्ठिकःषष्ठिगुणितो वाक्पतेयुगमुच्यते ॥३६१ तवयं तु कलियोक्तस्तवयं द्वापरो भवेत् । कलित्रयेण त्रेता स्यात्कृतःकलिचतुष्टयम् ॥३६२ षष्टिनःसोऽपि कालज्ञैःप्रजानाथयुगः स्मृतः ॥३६३ कलिभिर्दशभिब्रह्मन् ! चतुर्युगमिति स्मृतम् ।। चतुर्युगसहस्रण ब्रह्माहाकल्प उच्यते ॥३६४ अष्टयुगा भवेत्सन्ध्या सायंसन्ध्या च सावती । तदेकसप्ततिगुणं मन्वन्तरमिति स्मृतम् ॥३६५ मन्वन्तरद्वयेनेह शक्रपातः प्रकीर्तितः। एतन्मानेन वर्षाणां शतं ब्रह्मक्षयः स्मृतः ॥३६६ ब्रह्मक्षयशतेनापि विष्णोरेकमहर्भवेत्।। एतदिवसमानेन शतवर्षेण तत्क्षयः ॥३६७ तत्क्षयस्त्रिगुणोष्टाभी रुद्रस्य त्रुटिरुच्यते। एवमाब्दिकमानेन प्रयातोऽब्दशते द्विजाः । रुद्रश्चात्मनि लीयेत निष्कलंक निरामयम् ॥३६८ निष्प्रकम्पं जगत् व्योम व्योमातीतं परं पदम्।
तन्निदिध्याससंशुध्या स तत्रैव विलीयते ॥३६६ परम्पराणां परमं विचिन्त्य परात्परं दिष्टपदादतीतम् । क्षणादिकालं क्रमशोऽब्दमेव प्रयाति तं तत्पदमव्ययं च ॥३७०