SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ६७०. वृहत्पराशरस्मृतिः। [द्वादशाअपवर्गाय द्वे चापि कर्म कृत्वा निवेदयेत् । कर्मापि क्रियमाणं वै निरपेक्षं तु मोक्षकृत् ॥३३६ विष्णवे गुरवे वापि कर्म कृत्वा निवेदयेत् । आत्मनः फलमिच्छंस्तु यत्कर्म कुरुते नरः॥३४० तेनैव वाञ्छितप्राप्तिस्तेनान्यद्वोपजायते । हरिर्वा नित्यमभ्यस्य सर्वभावेन सद्विजैः ॥३४१ तदभ्यासादवाप्नोति मृत्यौ दृष्टे हरिस्मृतिम् । एक एव हि स ध्येयो यत्परं नास्ति किञ्चन ॥३४२ विराट् सम्म्राट् महानेष सदा ध्येयो जितेन्द्रियैः । महान्तं पुरुषं देवं रविरूपं तमः परम् ॥६४३ ब्रह्मवित्सोऽतिमृत्युं वै प्रयात्येवानिवर्तकम् । एष एव नृणां पन्था ब्रह्मा वै यमुपासते ॥३४४ ये ये जन्मस्वनेकेषु विधिवच्चैकचेतसः । न भत्त्या नापि योगेन नाभ्यासैनकजन्मना ॥३४५ ब्रह्माप्तिर्जायते पुंसां किन्तु स्याद्भूरिजन्मभिः। यहेवा सन्तताभ्यासान्न ब्रह्म प्रतिपेदिरे ॥३४६ तन्मनुष्यैः कथं प्राप्यमेकेनैव च जन्मना । ज्ञानाभ्यासैन तद्ब्रह्म कृतैदभस्वरूपकैः ॥३४७ न प्राप्यते परं ब्रह्म न वाप्यासनमुद्रया । बहुभिः किमुपायैस्तु प्रोक्तैर्वा ग्रन्थिविस्तरैः ॥३४८ एकमेवाभ्यसेत्तत्वं येन चित्ते वसेद्धरिः ।
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy