________________
ऽध्यायः] ध्यानयोगवर्णनम्।
६६६ विद्वान् धूमादिरेको वै द्वितीयस्त्वचिरादिकः । प्रत्येतव्यौ प्रयत्नेन यत्प्रतीतिर्न जायते ॥३२८ धूपः क्षपाऽसितः पक्षो दक्षिणायनमेव च । लोकःपिव्यश्च सोमश्व मातरिश्वानुकर्षणम् ॥३२६ यथा धातृक्रमादेते सम्भवन्ति समाश्रिताः । अचिदिनं सितः पक्षस्तथाचैवोत्तरायणम् ॥३३० देवलोकस्तथा सूर्यो विद्युतश्च क्रमादिमान् । मानसाः पुरुषा यान्ति जानन्तो ब्रह्मलोकताम् ॥३३१ यत्र याताः पुननेह संसरन्ति द्विजाः कचित् । मार्गद्वयमिदं धीमन्मन्तव्यं सततं द्विजैः ॥३३२ ज्ञानेन येन विज्ञातुर्ज्ञान-मोक्षौ च सिध्यतः। गृहारण्यस्थ-भिक्षुणां त्रयाणामपि धीमताम् ॥३३३ ज्ञानमभ्यस्यमानं तु तथा दहति संसृतिम् । ज्ञानं समानमेतद्व इति ब्रह्मविदो विदुः ॥३३४ यथा दहति चैधांसि समिद्रश्वाशुशुक्षणिः। तस्मान्मार्गद्वयेनापि आत्मा ज्ञेयो द्विजोत्तमैः ।।३३५ ये न जानन्ति ते यान्ति दन्दशूकादियोनिषु । यत्र गत्वा कृमित्वं वा कीटत्वमथ वाऽऽप्नुयुः ॥३३६ एताभ्योऽप्यधमास्वेव जायन्ते ते कुयोनिषु । विद्याविद्य च मन्तव्ये ते हेतू स्वर्ग-मोक्षयोः ॥३३७ विद्या मोक्षप्रदा च स्यादविद्या मृत्युजन्मकृत् । ज्ञानयोगस्तथा कर्म विद्याविद्ये स्मृते बुधैः ॥३३८