________________
बृहत्पराशरस्मृतिः ।
[ द्वादशो
इत्येतदुध्यानमार्गं तु वदन्ति कवयो द्विजाः । केचिदन्येऽन्यथा ब्रूयु रूपं ब्रह्मविदो विधेः ॥ ३१८ न नामापि हि दुःखस्य शर्म यत्र निरन्तरम् । ब्रह्मणो रूपमानन्दं तन्मुक्तावुपलभ्यते ||३१६ सर्वव्यापी य एकस्तु यश्चानन्तश्च भावुकः । समन्तव्यो नरो ह्यात्मा सर्व व्याप्य च यः स्थितः || ३२० एकं व्योम यथानैकं गृहाद्यैरुपलक्ष्यते ।
एको ह्यात्मा तथानैको जलागारेषु सूर्यवत् ॥ ३२१ विश्वरूपो मणिर्यद्वत् वर्णान् गृह्णात्यनेकशः । उपाधितस्तथात्मैको नाना देहेषु कर्मतः || ३२२ कलाकाष्ठादिरूपेण वर्तमानादिभेदकृत् ।
एक: कालो यथा नाना तथात्मैकोऽप्यनेकधा ॥ ३२३ देहमध्यस्थितं देवं यो न ध्यायति मूढधीः ।
सोऽलब्धं मधु त्यक्त्वा क्लेशायाज्ञो गिरिं व्रजेत् ॥ ३२४ यस्तीर्थयानं जप यज्ञ - होमान् कुर्याद्वपुष्पान् न च वेति विष्णुम् । स मांसपिण्डं परिहृत्य दूरादश: प्रधावेदधिरुह्य पृष्ठम् ।।३२५ सम्भ्राम्यते विधिवशात्करणोप्रचक्रे
६६८
पापेन कुम्भ इव धातृवरेण नूनम् । आरोप्य स्वार्थधृतदण्डमुखेन पूर्ण हृत्पद्मसंस्थशिवतत्वमतिप्रहीण ॥ ३२६
मार्गावात्मनोज्ञेय ब्राह्मणैर्ब्रह्मचिन्तकैः । अभियाति विदित्वा यो सायुज्यं परवेधसः || ३२७