________________
६६७
ऽध्यायः] ध्यानयोगवर्णनम् ।
चित्तजं श्रुतिजं भावं भावनाभवमेव च । विद्यमात्मना सिध्येद्योगाभ्यासफलप्रदम् ॥३०७ आत्मशक्तिः शिवश्चेति चैतन्यमिति संज्ञितम् । उत्तरोत्तरवैशिष्ट्याद्योगाभ्यासः प्रवर्तते ॥३०८ स एको निश्चलीभूतकर्मात्मा यमुपार्जितः । न विभेति स एकाकी परेषां जायते भयम् ।।३०६ तदेवं गतिभिर्ब्रह्मध्यानं यस्यास्ति योगिनः । स विशेत्तमजं शान्तं कदाचिसंसरेन तु ॥३१० त्र्यम्बकश्च चतुर्वक्त्रश्चतुर्बाहुः परेश्वरः । एक एव महेशो वै तहस्त्रिधेति कीर्त्यते ॥३११ नाभिमध्य स्थितं विद्धि वस्तु विद्वन् सुनिर्मलम् । रविवद् भ्राजमानं तु काशद्रश्मिगणैर्द्विज ॥३१२ चिन्तयेत् हृदि मध्यस्थं दीप्तिमत्सूर्यमण्डलम् । तस्य मध्यगतः सोमो वह्रिश्चन्द्रशिखो महान् ॥३१३ तन्मध्ये तु परं सूक्ष्मं तद्धयायेद्योगमात्मनः । तन्मध्ये चिन्तयेदेतद्वक्ष्यमाणक्रमेण तु ॥३१४ विन्दुमध्यगतो नादो नादमध्यगतो ध्वनिः । धनिमध्यगतस्तारस्तारमध्यगतोंशुमान् ।।३१५ तस्यमध्यगतं ब्रह्म शान्तं तस्य तु मध्यगम् । परं पदं तु यच्छान्तं सम्याव्याहृत्य योजयेत् ॥३१६ जीवात्मा कायमध्यस्थस्तत्रापि देहवर्जितः। वक्त्र-नासापुटस्थस्तु भुञ्जीत विषयान् प्रभुः ।।३१७