________________
६६५
ऽध्यायः ] ध्यानयोगवर्णनम् ।
वैदिकः कर्मयोगश्च दिवोऽप्यावर्तकः स तु । योनेहावृत्तिकृत्तं च ज्ञानयोगमतोऽभ्यसेत् ।।२८५ हृदि निःसृतनाडीनां सहस्राणां द्विसप्ततिः । तन्मध्यावस्थितं तेजः शशिप्रभं विभाति यत् ॥२८६ तन्मध्यमण्डले ह्यात्मा विधूमाचलदीपवत् । स ज्ञातव्यो विदित्वा तं संसरेन पुनर्यतः ॥२८७ पुटीभूतमधोवक्त्रं तद्धृत्पद्म व्यवस्थितम् । नाभ्युत्थोदानवातेन कृत्वो स्यं विकासयेत् ।।२८८ विकास्य तस्य मध्यस्थमचलं दीपशिखेव तत् ! तदूर्ध्व निःसरच्छुभ्र सूक्ष्मं तत्तु विचिन्तयेत् ॥२८६ ललनाद्वारनिर्गच्छन्योगी मूर्ध्नि तु चिन्तयेत् । तावत्तु चिन्तयेद्यावन्निरालम्वत्वमृच्छति ।।२६० निरालम्बं यदा ध्यानं कुर्वाणो निश्चलो भवेत् । तदा तदुच्यते ब्रह्म स योगी ब्रह्मवित्तमः ।।२६१ तत्पदं च पदातीतं तत्प्राप्तौ मुक्त उच्यते । इति ध्यानं विधातव्यं मुक्तिकृत्सद्विजैर्द्विजाः !।२६२ भूतानामात्मभूतस्य तानि सम्यक् प्रपश्यत: : विमुह्यन्त्यमरा मार्ग पदं किमपदस्य तु ।।२६३ यो न तिष्ठति नो याति न किञ्चित्सर्व एव यः । अवाग्यो वाङ्मयो यश्च सकलश्रुतिरश्रुतिः ॥२६४ योऽप्यन्तिके दवीयांश्च योऽस्ति नास्ति स्वरूपकः । यस्य तत्त्वस्य संवित्तिः स तस्मिन्नेव लीयते ।।२६५