________________
६६२
[ द्वादशो
वृहत्पराशरस्मृतिः ।
उक्तस्तु संयमः पूर्वं त्रिविधो मलनाशनः । निबोधत चतुर्थ तु ध्यानं प्रणववेधसः ॥ २५५ विधिवत्प्रणवध्यानमे कचित्तस्तु योऽभ्यसेत् । ब्रह्माभ्येति स मुक्तात्मा स योगी योगिनां वरः ॥ २५६ तद्धयानमसुसंरोधस्तुर्यं सम्यगिहोच्यते । तदन्यथानपेक्षं च चित्तक्षेपविवर्जितम् ॥२५७
चतुर्णामाश्रमाणां तु भेदमुक्त्वा पराशरः । अथाब्रवीद्विजा योगं श्रुणुध्वं पापनाशनम् ॥ २५८ तच्छान्तं निर्मलं शुद्ध ध्यातव्यं हृत्सरोरुहे । तद्धययं तद्वरेण्यं च बीजं मुक्तस्तदुच्यते ॥ २५६ सञ्चित्य व्याहृतीः सप्त प्रणवाद्यास्तदन्तकाः । सम्यगुक्तमिदं ध्यात्वा परब्रह्मणि योजयेत् ॥ २६० हुतभुक् पवनो जीवस्त्रयोऽप्येते हृदि स्थिताः । एतत्सवं तु चैकत्र संस्मरेत् ध्यानकृद्विजः || २६१ ॐकारवर्त्मनालेन उद्धृत्योपरि योजयेत् । योजयेत्सर्वमप्येतत्सिद्धयोगी स उच्यते ॥ २६२ शून्यभूतस्तु यत्प्राणः श्वासं जीवेति संज्ञितम् । यस्मादुत्पद्यते श्वासः पुनस्तत्र निवेशयेत् ॥ २६३ आद्यं तं प्रणवं विद्वान् घटाकाशवदभ्यसेत् ।
स पश्येन्निर्मलं शुद्धं पुरुषं तमसंशयम् || २६४ अन्तर्व वहि: (सम्यक) सर्पन् सर्पवत्कुण्डलाकृतिः ।