SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ६६० वृहत्पराशरस्मृतिः। . [द्वादशोरेचके शङ्करं ध्यायेल्ललाटस्थं त्रिशूलिनम् ।।२३३ शुद्धस्फटिकसङ्काशं संसारार्णवतारकम् । एवं श्वसनसंरोधाद्देवतात्रयचिन्तनात् ।।२३४ अमि-वाय्वंभसंयोगादन्तरं शुध्यते त्रिभिः । निरोधादभवद्वायुस्तस्मादग्निस्ततो जलम् ।।२३५ इति त्रिदेवतायोगात् शुद्धयन्तेऽन्तः पुनर्द्विजाः । व्याहृतिप्रणवोपेताः प्राणायामास्तु षोडश ॥२३६ अपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः । प्रातरहि च सायं च पूरकं ब्रह्मणोऽन्तिकम् ॥२३७ रेचकेन तृतीयेन प्राप्नुयात्परमं पदम् । न प्राणेनाप्यपानेन वायुवेगेन रेचयेत् ।।२३८ प्रागुक्तेन प्रयोगेण मोचयेत्प्राणसंयमी। शरीरं च शिरोग्रीवा विद्वान् प्राणी च पवयम् ॥२३६ सर्वाङ्ग निश्चलं धार्यमापूर्वसर्वनाडिकाः। संवृत्याङ्गानि सर्वाणि कूर्मवध्यानकृद् द्विजः ॥२४० बद्धासनोऽचलाङ्गस्तु कुर्यादसुनिरोधनम् । कृत्वा सुसंयमं विद्वान्विधिवत्समुपस्पृशेत् ।।२४१ अन्तरं शुध्यते यस्यात्तस्मादाचमनं स्मृतम् । इत्युक्तः प्राणसंरोधो देवतात्रयसंयुतः ॥२४२ त्रिमात्रः प्रणवत्तत्र ध्यातव्यः सर्वयोगिभिः । स्मर्यमाणस्य यातस्य विश्रान्ति स्यादमातृके ॥२४३ तत्परं निष्फलं ज्ञानं तद्विदुर्ब्रह्मचिन्तकाः ।
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy