SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ RE ऽध्यायः] योगवर्णनम् । देहं त्यक्त्वा यदा जीवो बहिराकाशमास्थितः ।।२२२ तदा नितिषयो वायुभवेदत्र न संशयः। तदा स सर्वदेहेषु नासाग्रमास्थितः शिवः ॥२२३ प्रत्यक्षः सर्वभूतानां तिष्ठते न च लक्ष्यते । यदा न श्वसते वायुस्तदा निष्फलमुच्यते ॥२२४ नाभिसंस्थं तु विज्ञाय जन्मबन्धाद्विमुच्यते । देहस्थः सर्व सत्वानां स जीवति शृणोति च ॥२२५ धर्माधर्मेरवष्टब्धो देहे देहे व्यवस्थितः । स हृत्पंकजसंस्थस्तु अध उध्वं प्रधावति ।२२६ धर्माधर्ममहापाशैर्गृहीतःसन् प्रवर्तते । उर्ध्वमुच्छसते यावत्प्राणाख्यस्तु समीरणः ।।२२७ तावत्प्राणस्तु विज्ञेयो यावन्नासाग्रमास्थितः । अत्रस्थं निष्कलं ब्रह्म यावन्न श्वसिति द्विज ॥२२८ श्वासेन हि समायोगादाकाशात्पुनरागतः । नासारन्ध्रसमालीनस्तदा निष्फलमुच्यते ।।२२६ स जीव इति विख्यातः स विष्णुः स महेश्वरः । ध्यातव्या देवतास्तत्र क्रमेण पूरकादिषु ।।२३० विष्ण-ब्रह्मेश्वरास्तेषु स्थानेषु स्थानविद्विजैः । नीलपङ्कजवत् श्याममासीनं नाभिमध्यतः ॥२३१ महात्मानं चतुर्बाहुँ पूरके तु हरिं स्मरेत् । हृत्पद्म कुम्भके ध्यायेत् ब्रह्माणं पङ्कजासनम् ।।२३२ रक्तन्दीवरवर्णाभं चतुर्वक्त्रं पितामहम् ।
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy