________________
६५८
वृहत्पराशरस्मृतिः। [द्वादशोप्राणायामैस्तदभ्यस्य पूरकाद्यैश्च वायुभिः । पूरक-कुम्भको वा रेचकस्तु तृतीयकः ॥२१२ येन व्यावर्तते वाकुर्नासायान्निःसरेद्वहिः । पूरयेत् श्वासयोगेन पूरकं तद्विदो विदुः ॥२१३ आपूर्य निश्चलीकृत्य यः कश्चिद्धार्यतेऽनिलः । श्वासयोगं वदन्त्येवं कवयः कुम्भकं त्विति ॥२१४ ब्रह्मध्यानसमायुक्तं वायु यो न वहिनयेत् । कुम्भकः पवनः स स्याद्यो वहिनैव मुच्यते ॥२१५ रेचकं तद्विदुस्तज्ज्ञा रेच्यते यः शनैः शनैः । न वेगानेचयेद्वायुं सर्वथा विघ्नभाग् भवेत् ॥२१६ मोचयेन्मन्दमन्दं तु बहिः स्यात्कुम्भितो यथा । नासाग्रस्थितपाणिस्तु सशिरश्चालनक्षमम् ॥२१७ अनिलं रेचयेद्योगी न मन्दं नातिवंगतः । न ज्ञायतेऽनिलो यस्य निःसरम् नासिकाग्रतः ।२१८ यस्यास्ते कुम्भितोऽजस्रं प्राणयोगी स उच्यते । दीर्घायुस्त्वं परं ज्ञानं समस्ता योगसिद्धयः ॥२१६ देहे तस्याऽवतिष्ठन्ति प्राणो येन वशीकृतः। यत्र तिष्ठति जीवःस्यानिःसृतेमृत उच्यते ॥२२० स किन्न धार्यते प्राणो ब्रह्माप्तिः सति यत्र तु । प्राण एवायमात्मास्ते प्राणो देहस्य वाहकः ॥२२१ शरीरानिःसृते प्राणे नात्मा विग्रहवाहकः।