SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः ...योगवर्णनम् । जरायुजांण्डजादीनि वपूंषि योऽग्रहीनिजः। कर्मभिर्वर्णभेदैश्च चित्तदौर्गत्यरुग्युतः ॥२०१ .... बधिर-क्लीब-निःस्वा-ऽन्धा जायन्ते पुरुषाधमाः। . निरेनसः पुनर्भूत्वा विद्वद्विप्रकुलेषु च ।।२०२ महाकुलेषु चान्येषु जायन्ते लक्षणान्विताः। धनवन्तः प्रजावन्तो विद्यावन्तो यशस्विनः ।।२०३ रूप-सौभाग्यसंयुक्ताः सर्वेषामुपकारकाः। ब्रह्माभ्यासरताः शान्ताः षट्कर्मनिरतास्तथा ॥२०४ पभयकृतो नित्यमग्निष्टोमादिषु स्थिताः। द्विजोपास्तिकरा नित्यं गुर्वाचार्यादिपूजकाः ।।२०५ चतुराश्रमधर्माणां सेविनः समदर्शिनः । गुणैः सबै समायुक्तास्तेजस्विनो जनप्रियाः ॥२०६ एवंभूताश्च ये विप्रास्तेषां विष्णु सदान्तिके। विष्णुश्च सर्वदेवत्यस्तस्माद्विष्णुमना भवेत् ।।२०७ देवता_कृतां नित्यं गुरूपास्तिकृतां तथा । ब्रह्मेवाभ्यसतां सस्यक् ब्रह्मसान्निध्यमिष्यते ॥२०८ उपास्यं तत्सदा ब्रह्म यावत्साधकतां वहेत् । बह्वायासाद्विदित्वा यत्संसरेन्नेह मानवः ॥२०६ वदन्ति ब्रह्मवेत्तारो ब्रह्माभ्यासमनेकशः। ब्रह्मापि द्विविधं धीमन्नपरं परमेव ।।२१० समत्वं परमं ब्रह्म शब्दब्रह्मेति कीर्तितम् । प्रणवाख्यं त्रिरूपं तत्प्रागेव हे विशेषतः ॥२११
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy