________________
६५६
वृहत्पराशरस्मृतिः। [द्वादशोआरम्भकाणि यान्येव तेषु यान्ति तदंशकाः । आत्मा चान्यदवाप्नोति यातनीय पुनर्वपुः ॥१६० । यः पश्येत् शृणुयाजियेत् स्वदेद्विद्यात्स्मरेद्वदेत् । स्वप्याच्च जागृयाद्च्छेद्भिन्यात् गायेत् जपेत् पठेत् ॥१६१ गृहीयादर्पयेद्दद्याज्जायेत जनयेदपि । सोऽस्ति कश्चित्परो देहाद्यो देवीति निगद्यते ॥१६२ नैकश्चेत्स्यान्न देहेऽस्मिन् प्रत्यभिज्ञा कथं भवेत् । एकदृक्-दृष्टिरूपस्य पुनरन्येन पश्यतः ॥१६३ अद्राक्षं यदहं वस्तु तदेवैतत्स्पृशाम्यथ । यथाऽस्माक्षं च पश्यामि प्रतीतिर्यस्य जायते ॥१६४. दर्शन-स्पर्शनाभ्यां च ग्रहणादेकवस्तुनः । अस्ति ह्यात्मा परो देहात्तथा देशस्ति कश्चन ॥१६५ गृही च गृहमध्यस्थो भग्न किंचित्समाचरेत् । देहे क्षतादिसंरोहात्ता देयस्ति कश्चन ॥१६६ ज्ञानयोगफलेनायं कर्मयोगफलेन च । स एव भुज्यते कुर्वन् उद्देशौ तस्य ताविति ॥१६७ तार्यते कर्मणा चायं बध्यते कर्मणापि च । उभयथापि नैवात्र प्रत्यक्षं दृश्यते द्विजाः ।।१६८ मायावित्वं च मूकत्वमतिरिक्तांगता क्रमात् । अवाक्त्वं धान्यहर्तृणां पैशून्ये पूतिनासिता ॥१६६ भरतो वर्णकैश्चिः स्वदेहं चित्रयेद्यथा । कुर्वन्नानाविधं कर्म तथात्मा कर्मजास्तनूः ॥२००