SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ योगवा ऽध्यायः ] योगवर्णनम् । ६५५ जनन्या दोहदाभावे गर्भस्थस्यापि दुःखिताः। अत्यन्तं जायमानस्य योनियन्त्रनिपीडनात् ॥१७६ जातस्य बालरोगाद्यैोगिनीग्रहदोषतः। देहिनः सर्वदा दुःखं दंतजन्मादिकZहैः ॥१८० एवं बाल्ये महदुखं कौमार्ये यौवनेऽपि च । स्त्रिया विनापि साधं वा दारिद्रयर्ययोरपि ॥१८१ क्षुत्तृड्भ्यां प्रथमे वित्तरक्षणाद्यैद्वितीयके । वृद्धत्वेचानयोदु:खं तस्माद्दुःमयं वपुः॥१८२ मसिन लेपितं बद्धं स्नायुभिः कुल्यसञ्चयम् । मेदोमेहनसम्पूर्ण कफ-पित्त-वसाश्रयम् ॥१८३ अमेध्यपूर्ण भस्रावत्सर्व वै सर्वदाऽशुचि । मृत्स्नया स्नान गन्धा_निर्गन्धि नियते बहिः ॥१८४ दुर्गन्धं सर्वरन्ध्रषु स्वघ्राणोद्वेगकारकम् । सततं स्रवतेऽमेध्यं किं देहस्योच्यते शुभम् ॥१८५ यददग्धं भवेन्मृत्स्ना दग्धं भस्मत्वमाप्नुयात् । मृतस्य दृश्यते किञ्चित् तृष्णाकोपरतस्य तु ॥१८६ क इहोत्पद्यते विद्वान् को वेह म्रिय पुनः। यन्त्रोपममिदं धीमान् वायुत्यक्तं मृतं भवेत् ।।१८७ पृथगात्मा पृथक् स्वान्तं पृथक् खानि दशापि च । पृथक् पृथक् च भूतानि पृथक् तेषां गुणोत्करः।।१८८ - पृथक् प्राणादिवायुश्च तद्गतिश्च पृथक् पृथक् । पृथक् पृथगिति ह्येतत् शरीरं किमिहोच्यते ॥१८६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy