________________
ऽध्यायः] चतुर्णामाश्रमाणांभेदवर्णनम् ।
तिष्ठेद्यश्च शिलोच्छाभ्यामुद्धृताग्निश्च उच्यते । आत्मविश्च क्रियाः कुर्यात् घोरसंन्यासिकः स्मृतः ॥१५७ वानप्रस्थश्चतुर्भेदो वैखानस उदुम्बरः । वालखिल्यो वनेवासी तल्लक्षणमधोच्यते ॥१५८ फलैमलैरकृष्टान्नैरग्निकम वने वसन् । कुर्यात्पञ्चमहायान् स वैखानस आत्मवित् ॥१५६ प्रातई दिगानीतर्फलाकृष्टाशनेन्धनैः। उदुम्बरो मतो ज्ञानी पञ्चयज्ञाग्निकर्मकृत् ॥१६० चतुरो न्यासकृदग्निकार्य कुर्वन्वने वसन् । फलस्नेहैवनान्नैश्च बहुभिःश्रुतिचोदितः ॥१६१ उद्धृत्य परिपूताद्भिस्तथाऽयाचितवृत्तिकः । फलैर्वन्यैर्वनान्नैश्च फेनपः पञ्चयज्ञकृत् ॥१६२ वनस्थो वालखिल्यो यो धत्ते वल्कलचीवरम् । अग्निकार्यकृदात्मज्ञ ऊर्जान्ते संचितं त्यजन् ॥१६३ चतुर्भेदः परिबाट् स्यात् कुटीचक-बहूदको । हंसाः परमहंसाश्च वक्ष्यन्ते ते पृथक् पृथक् ॥१६४ ... पुत्रस्य भ्रातृपुत्रस्य भ्रातृ-दौहित्रयोरपि । तदुपान्तकुटीस्थो यः स भक्ष्यवृत्तिभुक् द्विजः ॥१६५ प्रतिचर्याकृतःसोऽपि यो वासःपूतवारिपः । तथा त्रिदण्डभृत् शान्त आत्मज्ञः स कुटीचकः ॥१६६ झयो बहूदको नाम यः पवित्रितपादुकः । शिखासनोपवीतानि धातुकाषायवस्त्रभृत् ॥१६७