________________
६५२
बृहत्पराशरस्मृतिः।
[द्वादशोचतुर्णामाश्रमाणां तु भेदो दृष्टो मनीषिभिः । प्रत्येकशो वदाम्येनं श्रुणुध्वं द्विजसत्तमाः॥१४६ ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा । एतद्भेदान् प्रवक्ष्यामि श्रुणुध्वं पापनाशनम् ॥१४७ चतुर्धा ब्रह्मचारी स्याद्गायत्रो वैधसस्तथा । प्राजापत्यो वृहाचेति लक्षणानि पृथक् पृथक् ॥१४८ अक्षारलवणाशी स्यात् गायत्र्यभ्यासतत्परः । वर्तते भिक्षया नित्यं गायत्रोऽयं प्रकीर्तितः ॥१४६ चतुर्धा द्वादशाब्धानि योऽधीयानश्चतुःश्रुतीः। भिक्षया ब्रह्मचर्येण तिष्ठेत् ब्राह्मः स उच्यते ॥१५० गुरोर्वा गुरुपुत्रस्य तत्पल्या वापि सन्निधौ । यो वसेदभ्यसन ज्ञानं ब्रह्मचारी स नैष्ठिकः ॥१५१ ऋतुकालाभिगामी सन् परस्त्री पर्व वर्जयेन् । वेदानध्येति भिक्षाभुक् प्राजापत्योऽयमुच्यते ॥१५२ . गृहस्थस्तु चतुर्भेदो वार्ता-शालीनवृत्तिको । यायावरस्तथा वान्यो घोरसन्यासिकस्तथा ॥१५३ कृषि-गोरक्ष-वाणिज्यैः कुर्वन् सर्वाः क्रिया द्विजः। विहतैरात्मविद्यैश्च वार्तावृत्तिः स उच्यते ॥१५४. ददात्यध्येति यजते याजयेन च पाठयेत्। कुर्यात्कर्माप्रतिग्राही शालीनो ध्यानकृ द्विजः ॥१५५ उक्तः सन् कारयेदन्यांक्रियां कुर्यात्प्रतिग्रहम् । पाठयेश्च तथात्मानं यायावरः स उच्यते ॥१५६