SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ [द्वादशो ६५० वृहत्पराशरस्मृतिः। काषायवासः कौपीनं कार्यार्थं वस्त्रमेव वा। शिखा यज्ञोपवीतं च दण्डानां त्रितयं तथा ॥१२७ द्विकालं विधिवत्नानं भिक्षया चैकभोजनम् । शुद्ध कवृत्तिविप्रेषु सत्कर्मनिरतेषु च ॥१२८ भिक्षाचर्या यतेः प्रोक्ता व्रतचर्या तथैव च । असम्भाषश्च शूद्रेण तथा च शिल्पि-कारुभिः॥१२६ अवक्तृत्वं तथा स्त्रीभिः कृत्यमेतद्यतेः स्मृतम् । न कदम्बकसंरोधो नित्यमेकान्तशीलता ॥१३० सदैव प्राणसंरोधः सदैवाध्यात्मचिन्तनम् । मृणुहावलाब्वश्ममयं पात्रं यते स्मृतम् ।।१३१ शुद्धिरहिरमीषां तु गोवालश्चावघर्षणम् । न दण्डन च दण्डेन विना वा तेन वा तथा ॥८३२ मोक्षावाप्तिर्भवेत्पुंसां कित्वस्याध्यात्मचिन्तनात् ।। समत्वं सुख-दुःखेषु तथा विद्वेष-रागयोः ॥१३३ आत्मान्ययोः समानत्वमजस्र चात्मचिन्तनम् ॥१३४ यतिभिस्त्रिभिरेकत्र द्वाभ्यां पञ्चभिरेव वा। न स्थातव्यं कदाचित्स्यात्तिष्ठन्तो नाशमाप्नुयुः ॥१३५ बहुत्वं यत्र भिक्षणां वार्तास्तत्र विचित्रकाः। स्नेह-पैशून्य-मात्सर्य भिक्षणां नृपतेरपि ॥१३६ तस्मादेकान्तशीलेन भवितव्यं तपोर्थिना । आत्माभ्यासरतश्चैव ब्रह्मप्राप्यभिलाषुकः ॥१३७
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy