SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः ] वानप्रस्थभिक्षुधर्मवर्णनम्। १४६ तथा सर्वेषु कालेषु तथा सर्वाश्रमेषु च। गोदुग्धादि पवित्र स्यात्सर्वकार्येषु सत्तमाः॥११७ वनवासिषु सर्वेषु भिक्षां कुर्याद्वनाश्रमी । तदा सर्व प्रकुर्वीत पितृदेवार्चनादिकम् ॥११८ । अष्टौ भुञ्जीत वा प्रासान् ग्रामादाहृत्य यत्नवान् । वासनासंक्षयं गच्छेदनिलाशः प्रागुदीचिकः ११६ विधाय विप्रो वनवासधर्मान् सर्वानिमानुक्तविधिक्रमेण । स शोव्य पापानि वपुर्विशोध्य ब्रह्माधिगच्छेत्परमं द्विजेन्द्राः ॥१२० आश्रमत्रयधर्मान्वा चरित्वा प्राक् द्विजास्ततः । द्वयस्य वा ततः पश्चाच्चतुर्थाश्रममाचरेत् ॥१२० द्विजाग्रजो यदा पश्येत् वलीपलितमात्मनः । उपरामस्तथाक्षाणां क्षण्यं कामस्य सद्विजाः ॥१२१ समीक्ष्य पुत्रां पौत्र वा दृष्ट्वा वा दुहितुः सुतम् । अधीत्य विधिवद्वेदान् कृत्वा यज्ञान्विधानतः ॥१२२ निश्चयं मनसः कृत्वा चतुर्थाश्रममाविशेत् । प्राजापत्यां विधायेष्टिं वनाद्वा सद्मनोऽपि वा ॥१२३ समस्तदक्षिणायुक्तान् सर्ववेदांस्ततश्च तान् । अनीनात्मनि चारोप्य दण्डान् विधिवदाहरेत् ॥१२४ किश्चिद्भेदं समास्थाय तद्धर्मेण च वर्तयेत् । वाङ्-मनः-कायदण्डाश्च तथा सत्वादयो गुणाः ॥१२५ त्रयोऽपि नियता यस्य स त्रिदण्डीति कथ्यते । कमण्डल्वक्षमाला च भिक्षापात्रमथापरम् ॥१२६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy