SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ६४८ वृहत्पराशरस्मृतिः। [द्वादशोयोगाभ्यासरतो नित्यं स्थानाऽऽसन-विहारवान् । हेमन्त-ग्रीष्म-वर्षासु जलाग्न्याकाशमाश्रयेत् ॥१०६ दन्तोलूखलिको वापि कालपक्कभुगेव वा । म्याद्वाश्मकुट्टको विप्रः फलस्नेहैश्च कर्मकृत् ॥१०७ शत्रौ मिो समस्वान्तस्तथैव सुख-दुःखयोः । समदृष्टिश्च सर्वेषु न विशेद्वनगह्वरम् १०८ म्लेच्छव्याप्तानि सर्वाणि वनानि स्युः कलौ युगे। न भूपाः शासितारश्च ग्रामोपान्ते वसेदतः ॥१०६ प्रामाश्च नगरादेशास्तथारण्य-वनानि च । क्षितीशरक्षितान्येव सर्वेषां-फलदानि हि ॥११० प्रथमं भूपतेस्तस्मात्कृत्यं शंसेद्विजाग्रजाः । योगं वाऽरण्यवासं वा कुर्वीत तदनुसया ॥१११ . सुत्रामा-ऽनलवायूनां यमस्येन्दोविवस्वतः । ईश-वित्तेशयोब्रह्ममात्राभ्यो निर्मितो नृपः॥११२. , पारत्रिकं तु यत्किश्चिद्यत्किश्चिदैहिकं तथा । नृपाज्ञया द्विजातीनां तत्सवं सिध्यति ध्रुवम् ॥११३ नृपतेः प्रथमं तस्मात् साधोर्यज्ञादिकं द्विजः । रक्षार्थ कथयित्वा तु यथा कार्य समापयेत् ॥११४ धेनुः पूर्व वसिष्ठस्य ह्यासीदुर्वाससोऽपि च । वनवासाश्रमस्थस्य वह्निकार्याय तां श्रयेत् ॥११५ फलस्नेहा यदा न स्युः कालवैगुण्यतो द्विजाः । तदा गोदुग्ध-सर्पिभ्यामग्निकार्य समापयेत् ॥११६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy