________________
१४६
वृहत्पराशरस्मृतिः। [द्वादशोयस्त्यक्तमार्गाणि कुलानि राजा श्रेणीश्च जातीश्च गगांश्च लोकान् । आनीय मार्गे विदधाति धर्म्य नाकेऽपि गीर्वाणगणैः प्रशस्यते ॥८६
यः स्वधर्मे स्थितो राजा प्रजाधर्मण पालयेत् ।
सर्वकामसमृद्वात्मा विष्णुलोकमवाप्नुयात् ।।८७ हर्षश्व-वह्नि-यम-वित्तनाथ-शीतांशुरूपाणि हि बिभ्रतीह । सर्वेऽपि भूपास्त्विह पञ्चरूपास्तं कथ्यमानं शृणुत द्विजेन्द्राः ॥८८ यदा जिगीषु, तशस्त्रपाणिस्त्विषु समालम्ब्य स विद्धसैन्यः । सर्वान् सपत्नानिह जेतुकामस्तदा स हर्यश्व इवेह भाति ।।८६ अकारणात्कारणतोऽपि चैष प्रजां दहेकोपसमिद्धरोचिः। यदा तदेनं नृपनीतिविज्ञास्तनूनपातं प्रवदन्ति भूपम् ।।६० धर्मासनस्थः श्रुतिशास्त्रदृष्ट्या शुभाशुभाचारविचारकृत्स्यात् । धर्म्यषु दानं वकृत्सु दण्डं तदा ऽवनीशस्विह धर्मराजः ।।११ यदा स्वमात्य-द्विज याचकादीन् प्रहृष्टचित्तस्तु यथोचितेन । धनप्रदानेन करोति हृष्टान् भूभृत्तदाऽसौ द्रविणेशवत्स्यात् ॥६२ समस्तशीतांशुगुणप्रयुक्तो यदा प्रजामेप शुभाय पश्ये।। प्रसत्रमूर्तिर्गतमत्सरः सन् तदोच्यते सोम इति क्षितीशः ॥६३ आज्ञा नृपाणां परमं हि तेजो यस्तां न मन्येत स शस्त्रवध्यः । ब्रूयाच कुर्याञ्च वदेच भूभृत्कार्यं तदैवं भुवि सर्वलोकैः ॥६४ दुर्धर्षतिग्मांशुसमानदीप्तेयान् मनुष्यः पमपं नृपस्य । यस्तस्य तेजोऽप्यवमन्यमानः सद्यः स पंचत्वमुपैति पापात् ।।१४ योऽहाय सवं विदधाति पश्येत् शृणोति जानाति चकास्ति शास्ति । कस्तस्य चाज्ञा न बिभर्ति राज्ञः समस्तदेवांशभवो हि यस्मात ॥६५
इति राजधर्मवर्णनम्।