________________
६४४
वृहत्पराशरस्मृतिः [द्वादशोगृह्णीयात्सर्वदा राजा करानपीडयन्प्रजाः। स्तोके स्तोकान् पृथक् साम्ना स भुङ्क्ते सुचिरं धराम् ॥६५ सदा चोद्यमिना भाव्यं नृपेण विजिषीषुणा । विजिगीषुर्नु पो नान्यैः कदाचिदभिभूयते ॥६६ तदेवं हृदि सन्धाय धृतोत्साहो नृपो भवेत् ।
दैव-पौरुषसंयोग सर्वाः सिध्यन्ति सिद्धयः ॥६७ नैकेन चक्रेण रथः प्रयाति नचैकपक्षो दिवि याति पक्षी । एवं हि देवेन न केवलेन पुंसोऽर्थसिद्धिर्नरकारतो वा ।।६८ केचिद्धि देवस्य तु केवलस्य प्राधान्यमिच्छन्ति मतिप्रवीणाः । पुंस्कारयुक्तस्य नरस्य केचिदप्यत्र इष्टा पुरुषार्थसिद्धिः ॥६६
अत्युद्यमी क्रियत एव च यः श्रमी च शौर्यान्वितश्च गुणवांश्च सुधीश्च विद्वान् । प्राप्नोति नैव विधिना स पराङ्मुखन
स्वीयोदरस्य परिपूरणमन्नमात्रम् ।।७० शुभ्राणि हाणि वराङ्गनाश्च नानाप्रकारो विभवो नरस्य । उर्वीपतित्वं (च) नृपकारता (नृकारता) च सब हि मंक्षु (मञ्जु) क्षयमेति दैवात् ।।७१ केषा(एषां)हि पुंसां महतो हि देवात्स्थानस्थितानामपि चार्थसिद्धिः । केषां प्रभुत्वं बहुजीवितं च एको हि देवो बलवानतोऽत्र ।।७२ पुं-स्त्रीप्रयोगादथशुक्र-शोणितात् को देहमध्ये विदधाति गर्भ। स्त्रीणां तु तद्विप्रन चापि पुंसां सर्वाणि चैषां(मनुजेश्वर)ननु देवचेष्टा ।। कासां तु गर्भस्य न सम्भवोऽस्ति केषां च शुक्रं ननु वीर्यहीनम् । दधाति गर्भ ननु कापि दैवात् काश्चित्तु गभ न दधाति दैवात् ।।७४