________________
६४२
[द्वादशो
वृहत्पराशरस्मृतिः। स्वधरात्यन्तिके देशे युद्धमिच्छेत्स्वधर्मवित् । न तु प्रविश्य तदूरभूमि युद्धं समाचरेत् ॥४३ किञ्चित्सुप्तेषु लोकेषु क्षपायां युद्धमाचरेत् । सुधीरव्यसने चापि योधयेत्परसैनिकैः ॥४४ व्यूहै!य यथोक्तैर्वा रक्षां कृत्वापि चात्मनः । सैनिकांस्तान् समस्तांश्च प्रेरयेयुद्धविन्नृपः ॥४५ सम्मानयेत्समस्तांश्च योद्धृन्सेनापतीन्नृपः । अन्विच्छन् जयलक्ष्मी च नीतिज्ञः पृथिवीपतिः॥४६ स्नेहेनापि समं पल्या शय्यास्थोऽपि हि मानवः । पुष्पैरपि न युध्येत युद्धं तत्र विपत्तये ॥४७ हीनं परबलं मत्वा निरुत्साहमनादरम् । समस्तबलसंयुक्तः स्वयमुत्थाप्य योधयेत् ॥४८ न हन्यात् मुक्तकेशं च नाशयेन निरायुधम् । पराङ्मुखं न पतितं न तवास्मीति वादिनम् ॥४६ अन्यानपि निषिद्धांश्च न हन्यात्धर्मविन्नृपः। हत्वा च नरकं यान्ति भ्रूणहत्यासमैनसा ॥५० पराङ्मुखीकृते सैन्ये यो युद्धान्न निवर्तते । तत्पादानीष्टितुल्यानि भूम्यर्थ स्वामिनोऽपि वा ॥५१ शिरोहतस्य ये वक्त्रे विशन्ति रक्तबिन्दवः । सोमपानेन ते तुल्या इति वासिष्ठजोऽब्रवीत् ॥५२ युध्यन्ते भूभृतो ये च भूम्यर्थमेकचेतसः । इष्टस्तैर्बहुभिर्योगैरेवं यान्ति त्रिविष्टपम् ।।५३