SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] शान्तिविधिवर्णनम् । आतून इन्द्रवृत्रहं सुरेन्द्रः सगणेश्वरः। तथाष वामदेवस्य गायत्रं छन्द इत्यपि ॥३३६ जातवेदस इत्यत्र जातवेदास्तु दैवतम् । काश्यपस्यार्षमत्रापि छन्दोऽनुष्टुप् प्रकीर्तितम् ॥३४० अनोनियुद्भिरित्यस्मिन्वायुर्दैवतमुच्यते। . आर्षमत्र वसिष्ठस्य अनुष्टुप् छन्द उच्यते ॥३४१ नमः प्रकाशदेवत्यं मुनिप्रोक्तं प्रजापतिः। छन्दो गायत्रमित्युक्तं विनियोगो यथेप्सितम् ॥३४२ एषो उषेति चाप्यत्र अश्विनौ दैवते स्मरेत् । प्रस्कण्वश्चार्षमत्रापि गायत्रं च्छन्द उत्तमम् ॥३४३ मरुतो यस्य हि क्षये मरुदैवतमुच्यते। गौतमं च मुनि विद्धि छन्दश्च प्रथमं मुने ॥३४४ छन्दस्तथाष सहदैवतेन ज्ञात्वा द्विजो यः कुरुते विधानम् । वेदोक्तमथं प्रददाति सम्यक् सर्व फलं कर्तुरिहाप्यमुत्र ॥३४५ यो लक्षहोमं यदि कोटिहोम राजा विदध्यात्प्रतिवर्षमेकम् । राष्ट्र सुवृष्टिविजयः सुभक्ष्यमारोग्यता स्यात्सुकृतस्य वृद्धिः ॥३४६ भवन्ति पुत्राः शुभवंशवृध्यै दीर्घायुषो राजहिता धरित्र्याम् । सुकीर्तिमन्तो जयिनोऽपि राज्ये प्रतापवन्तो रवि-चन्द्रतुल्याः ॥ इति श्रीवृहत्पाराशरीये धर्मशास्त्रे शान्तिविधिर्नाम एकादशोऽध्यायः।
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy