________________
वृहत्पराशरस्मृतिः। . [एकादशोआषं तु वामदेवोऽस्य त्रिष्टप्छन्दो बुधैर्मतम् । अनि दूतमिति घस्या ममि देवता स्मृता ॥३२६ आर्ष मेधातिथिर्नाम छन्दो गायत्रमेव हि । अप्सुमे सोम इत्यत्र सोमं वै दैवतं स्मरेत् ॥३३० मेधातिथिरिहाप्यार्षमनुष्टुप् छन्द उच्यते । पुरुषसूक्तस्य देवत्यं पुरुष एव मतं बुधैः ।।३३१ भूमिपृथिव्यन्तरिक्षमित्यत्र दैवतं क्षितिः । ऋषिः शातातपो ह्यत्र छन्दश्चानुष्टुबुच्यते ॥३३२ आर्ष नारायणस्येह छन्दश्चानुष्टुबित्यपि । इन्द्रायेंदो मरुत्वते मरुत्वान्दैवतं महत् ।।३३३ आषं तु काश्यपस्येह गायत्रं च्छन्द एव हि । मरुत्वंतमिति पत्र सुरेन्द्रो देवता मता ॥३३४ अत्रापि कश्यपस्याषं गायत्रं छन्द एव हि । उत्तानपर्णइत्यत्र इन्द्रो दैवतमुच्यते ॥३३५ आर्ष साङ्ख्यस्य चात्रोक्त मनुष्टुप् छन्द इत्यपि । प्रजापते इति पत्र देवता च प्रजापतिः ॥३३६ हिरण्यगर्भस्याषं तु त्रिष्टुप् छन्दो मतं बुधैः । आयं गौरिति चैवात्र देवता फणिनो मता ॥३३७ सर्पराजो मुनिस्तत्र गायत्रं छन्द उच्यते । एष ब्रह्मा ऋत्विज इति ब्रह्मदेवोऽधिदैवतम् । ऋषि वामदेवोऽत्र गायत्रं छन्द इष्यते ॥३३८