________________
शान्तिविधिवर्णनम् ।
उद्बुध्यस्वेति मन्त्रस्य बुधश्चैव तु दैवतम् । मुनिर्बुधश्च मन्तव्यत्रिष्टुप् छन्दः प्रकीर्तितम् ||३१८ बृहस्पते अतीत्यत्र देवतापि बृहस्पतिः । आर्षं गृत्स्मदोऽस्येति छन्द त्रिष्टुप् प्रकीर्तितम् ||३१६ शुक्रः शुशुक्वेति हीत्यत्र शुक्र इत्यधिदैवतम् । शुक्रस्यापि तथाषं च विराट् छन्दः प्रकीर्तितम् ॥ ३२० शन्नो देवीति चेत्यत्र शनिदैवतमुच्यते । सिन्धुर्नाम ऋषिर्विद्वान् छन्दो गायत्रमुच्यते || ३२१ काण्डात् काण्डादिति राहुर्दैवतं हि तदुच्यते । ऋषिः प्रजापतिः प्रोक्तोऽनुष्टुप् छन्दः प्रकीर्तितः ॥३२२ केतुं कृण्वन्निति प्रोक्तं दैवतं केतुरेव हि । मधुच्छन्दस आर्षं च गायत्रं छन्द एव हि ।।३२३ स्योना पृथिवीति मन्त्रस्य स्कन्दश्च देवतास्मृता । आषं मेधातिथिश्चात्र स्वयम्भूर्देवतं परम् ॥३२४ भर्गाख्यश्च मुनिश्चात्र बृहती छन्द उच्यते । इन्द्रकुत्सेति दैवत्यं इन्द्र एवं स्मृतो बुधैः ॥ ३२५ आषं कुत्सस्य चामुत्र त्रिष्टुप् छन्दः प्रकीर्तितम् । यस्मिवृक्षेति वाह्यत्र यमो वै देवता परा ।। ३२६ ऋषिस्तु कुण्डलोमा च त्रिष्टुप् छन्दः स्मरेद्बुधः । ब्रह्मजज्ञानमित्यत्र कालो वे दैवतं महत् ॥३२७ मुनिर्धर्मतनुर्नाम त्रिष्टुप् छन्दोऽभिधीयते । आयातमिति च ह्यस्यां चित्रगुप्तस्तु दैवतम् ॥३२८
Sन्यायः ]
६३५