________________
१३४
वृहत्पराशरस्मृतिः। [एकादशोकामप्रदं नमस्कृत्य नारी नारायणं पतिम्। ' सम्प्राश्य च हविःशेषं वसेल्लघ्वाशनी गृहे ॥३०६ ततः कृत्वा इदं कर्म कर्तव्यं द्विजतर्पणम् । रजः स्त्रीषु निवर्तेत यावद्भं न विन्दति ॥३१० असूता मृतपुत्रा वा या च कन्याः प्रसूयते । क्षिप्रं सा जनयेत्पुत्रं पराशरवचो यथा ॥३११ होमान्ते दक्षिणां दद्यात् गृहं वासस्तथा तिलान् ।
भूमिं हिरण्यं रत्नानि यथा सम्भवमेव वा ॥३१२ वः सिद्धमन्त्रः सततं द्विजेन्द्रः सम्पूज्य विष्णु विधिवत्सुतार्थी। इमं विधानं विदधाति सम्यक् स पुत्रमाप्नोति हरेः प्रसादात् ॥३१३
इति पुत्रार्थ पुरुषसूक्तविधानवर्णनम् ।
॥ अथ शान्ति बाधेवर्णनम् ॥ अथातः सन्प्रवक्ष्यामि ग्रहमन्त्राधिदैवतम् । आर्ष छन्दश्च यज्ज्ञानात्कम स्यात्सफलं कृतम् ॥३१४ आकृष्णेनेति मन्तोऽस्मिन्दैवत्यं सविता महत् । सृषिहिरण्यस्तूपाख्यत्रिष्टुप् च्छन्दः प्रकीर्तितम् ।।३१५ आप्यायस्वेति सोमाऽत्र दैवतं गौतमो मुनिः । गायत्री छन्द उदिष्टं विनियोगो यथेप्सितम् ॥३१६ अमिति मन्त्रोत्र दैवतं भौम उच्यते । विरूपाक्षो मुनिधीमान् छन्दो गायत्रमिष्यते ॥३१७