SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः ] पुत्रार्थपुरुषसूक्तविधानवर्णनम् । १३३ अनपत्यस्य पुत्रार्थमकरोद्वैभाण्डिकः स्वयम् । सहस्रशीर्षसूक्तस्य विधानं चरुपाककृत् ॥२६८ यैयन पैः कृतं पूर्वमन्यरपि द्विजोत्तमैः । उपासितानि सद्भक्त्या श्रोत्रियैः श्रुतिपारगैः ।।२६E आत्मविद्भिनिराहारैः श्रौतिभिमंत्रवित्तमैः। सिध्यन्ति सर्वमन्त्राणि विधिविद्भिर्द्विजोत्तमैः ॥३०० क्रियमाणाः क्रियाः सर्वाः सिध्यन्ति ब्रतचारिभिः । न पाठान्न धनात् स्नानादात्मनः प्रतिपादनात् ॥३०१ प्राक्तनात्कर्मणः पुंसां सर्वाः सिध्यन्ति सिद्धयः। शुक्लपक्षे शुभे वारे शुभनक्षत्रगोचरे ॥३०२ द्वादश्यां पुत्रकामो यश्चरु कुर्वीत वैष्णवम् । दम्पत्योरुपवासः स्यादेकादश्यां सुरालये ॥३०३ ऋग्भिः षोडशभिः सम्यगर्चयित्वा जनार्दनम् । चरुं पुरुषसूक्तेन श्रपयेत्पुत्रकाम्यया ॥३०४ प्राप्नुयाद् वैष्णवं पुत्रं चिरायु सन्ततिक्षमम् ॥३०५ द्वादश्यां द्वादश चरून विधिवन्निपेद्विजः । यः करोति महायागं विष्णुलोकं स गच्छति ॥३०६ हुत्वाऽऽज्यं विधिवत्पूर्व अग्भिः षोडशभिस्तथा । समिधोऽश्वत्थवृक्षस्य हुत्वाज्यं जुहुयात्पुनः ।।३०७ उपस्थानं ततः कुर्याद्ध्यात्वा तु मधुसूदनम् । हविहोमं ततः कृत्वा दद्यात्पञ्च घृताहुतीः॥३०८
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy