SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ वृहत्पराशरस्मृतिः। [एकादशोसर्वान् कामानवाप्नोति ततो विष्णुपुरं व्रजेत् । यः पठेत् शृणुयाद्वापि ग्रहयागमिमं नरः॥२८६ सर्वपापविनिर्मुक्तः स गच्छेद्वैष्णवं पदम् । अश्वमेधसहस्रं च दश चाष्टौ च धर्मवित् ।।२६० कृत्वा यत्फलमाप्नोति कोटिहोमात्तदश्नुते । ब्रह्महत्यासहस्राणि भ्रूणहत्यार्बुदानि च । - नश्यन्ति कोटिहोमेन स्वयम्भुवचनं यथा ॥२६१ प्रपेदिरे येऽस्य पितामहाद्याः श्वभ्राणि पापेन गरीयसा तान् । उद्धृत्य नाकं स नयेद्धि सर्वान् यः कोटिहोमं नृपतिःकरोति ॥२६२ राष्ट्र मनोवाञ्छितवृष्टियुक्तं धान्यैश्च रत्नैः पशुभिः समेतम् । निर्द्वन्द्वनीरोगमदस्यु तस्य यो लक्षकोटीहवनं विदध्यात् ।।२६३ यो लक्षकोटिं विदधाति भूभृत् तद्वन्नरो लक्षशतं जुहोति । प्रत्यब्दमाप्नोति स दीर्घमायुर्भुङ्क्ते सपत्नान्विजयी धरित्रीम् ।।२६४ यो ब्रह्मघाती गुरुदारगामी प्रामादिदाहात् ध्रुवपापयुक्तः । पापैरशेषः पुरुषो विमुक्तः स कोटि होमाद्विवुधत्वमेति ॥२६५ तस्मात्तदा भूपतयो विध्युष्टिं प्रजासौख्यबलस्य पुष्ट्य । आयुः प्रवृद्धय विजयाय कीत्यै लक्षादिहोमं ग्रहयागमेतम् ॥२६६ इति कोटिहोमविधिवर्णनम् । ॥ अथ पुत्रार्थ पुरुषसूक्तविधानवर्णनम ।। अथान्यत्सम्प्रवक्ष्यामि विधिं पावनमुत्तमम । अस्मत्तातप्रतितोऽयं रघुपौत्रस्य धीमतः ।।२६७
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy