SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ६२८ वृहत्पराशरस्मृतिः । कुण्डानि खनितव्यानि अङ्गुलान्येकविंशतिः । निधापयेद्धिरण्यं च रत्नानि विविधानि च ॥ २४८ सिकतोपरि दातव्या तत्राप्यग्निं समिन्धयेत् । ग्रहांश्चैव सनक्षत्रान् दिशि प्रच्यां समर्चयेत् ॥ २४६ अवदानविधानेन स्थालीपाकं समर्पयेत् । आज्यभागाहुतीहु त्वा नवाहुत्या च होमयेत् ॥ २५० अग्निं सोमं तथा सूर्य विष्णुं चैव प्रजापतिम् । विश्वेदेवान् महेन्द्रं च मित्रं स्विष्टकृतं तथा ॥ २५१ दधि - मधु- घृताक्तानां समिधां चैव याज्ञिकाः । होमयेच्च सहस्र ं तु मंत्रैश्चैव यथाक्रमम् ॥ २५२ चतुर्विंशति गायत्र्या मानस्तोकेति षट् तथा । त्रिंशत् ग्रहादिमन्त्रैश्च चत्वारश्चैव वैष्णवैः ॥ २५३ कूष्माण्डैर्जुहुयात्पश्व विकिरेद्वाथ षोडश । जुहुयाद्दशसहस्राणि जातवेदस इत्युचा ॥२५४ तथा पञ्चसहस्राणि जहुयादिन्द्रदैवतेः । हुते शतसहस्रे तु अभिषेकं विधापयेत् ॥२५५ पुण्याभिषके यत्त्रोक्तं तत्प्रदाय शुभं भवेत् । अथ षोडशभिः कुम्भैः सहिरण्यैः समङ्गलैः || २५६ सर्वोषधिसमायुक्तैर्नानारत्नविभूषितैः । अभिषेकं ततः कुर्यात्स्नानमन्त्रैर्यथोचितैः ॥२५७ समा'ते तु ततस्तस्मिन् प्रधाना दक्षिणाः स्मृताः । गजाश्वरथ यानानि भूमिं वस्त्रयुगानि च ॥ २५८ [ एकादशो
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy