SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ कोटिहोमविधिवर्णनम् । अन्नं च गोशतं हेम ऋत्विजां चैव दक्षिणा । वृषेणैकादशेनाथ दातत्र्या दश धेनवः ॥ २५६ स्वशक्त्यातः प्रदातव्यं वित्तशाठ्यं न कारयेत् । एवं कृते तु यत्किचित् ग्रहपीडासमुद्भवम् ॥२६० भौममाकाशगं वापि अरिष्टं यच्च जायते । तत्सर्वं लक्ष होमेन प्रशमं याति निश्चितम् || २६१ शान्तिर्भवति पुष्टिश्च बलं तेजः प्रवर्द्धते । वृष्टिर्भवति राष्ट्र े च सर्वोपद्रवसंक्षयः ॥२६२ इति लक्षहोमविधिवर्णनम् । ऽध्यायः ] || अथ कोटिहोमविधिवर्णनम् ॥ अथातः सम्प्रवक्ष्यामि कोटिहोमविधिं द्विजाः । श्रूयतामादरेणैषः सर्वकामफलप्रदः || २६३ सानुष्ठाना द्विजाः प्रोक्ता ऋत्विजो यागकर्मणि । विधिज्ञाश्चैव मन्त्रज्ञाः स्वदारनिरताश्च ये || २६४ वरणीया विशेषेण ग्रहयागक्रियाविदः । एकाङ्गविकलो विप्रो धन-धान्यापहारकः ।। २६५ सर्वाङ्ग विकलो यस्तु यजमानं हिनस्ति सः । तस्मात्सर्वप्रयत्नेन वेदाङ्गविधिकोविदाः || २६६ प्रकर्तव्या विशेषेण प्रहयज्ञविदो द्विजाः । कार्यश्चैव प्रयत्नेन ग्रहयज्ञश्च वै द्विजैः || २६७ ५६ २६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy